ASTROPRINCIPLE
A SIGNATURE ADVISORY PRACTICE BY ASHISH SHRUNGARPURE
VEDIC ASTROLOGY  |  NUMEROLOGY  |  VASTU SHASTRA
YOGA & KUNDALINI  |  MONEY MANIFESTATION
BUSINESS GUIDANCE
Ancient Wisdom  •  Universal Energy  •  Practical Guidance
AstroPrinciple Knowledge Library

Mahalakshmi Stotram | महालक्ष्मी स्तोत्रम्

॥श्रीमहालक्ष्मी स्तोत्रम्॥

श्री गणेशाय नमः ॥

ॐ नम: कमलवासिन्यै नारायण्यै नमो नम: । कृष्णप्रियायै सारायै पद्मायै च नमो नम: ॥

पद्मपत्रेक्षणायै च पद्मस्यायै नमो नम: । सर्वसम्पत्स्वरुपायै सर्वदार्त्यै नमो नम: ॥

पद्मसनायै पद्मिन्यै वैष्णव्यै च नमो नम: । सुखदायै मोक्षदायै सिद्धिदायै नमो नम: ॥

हरिभक्तिमप्रदायिन्यै च हर्षदायै नमो नम: । कृष्णवक्ष: स्थितायै च कृष्णेशायै नमो नम: ॥

कृष्णशोभास्वरुपायै पद्मायै च नमो नम: । सम्पत्यधिष्ठातृदेव्यै च महादेव्यै नमो नम: ॥

शस्यादिष्ठाद्री देव्यै च शस्यायै च नमो नम: । नमो बुद्धिस्वरुपायै बुद्धिदायै नमो नम: ॥

वैकुण्ठे या महालक्ष्मीर्लक्ष्मी: क्षीरोदसागरे । स्वर्गलक्ष्मीरिन्द्रगृहे राजलक्ष्मीर्नपालये ॥

गृहलक्ष्मीश्च गृहीणां गेहे च गृहदेवता । सुरभि सा गवां माता दक्षिणा यज्ञकामिनी ॥

अदितिर्देवमाता त्वं कमला कमलालय । स्वाहा त्वं च हविर्दने कव्यदाने स्वधा स्मृता ॥

त्वं हि विष्णुस्वरुपा च सर्वाधारा वसुन्धरा । शुद्धसत्वस्वरुपा त्वं नारायणपरायाणा ॥

क्रोधहिंसावर्जिता च वरदा च शुभानना । परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥

त्वया विना जगत् सर्वे भस्मीभूतमसारकम । जीवन्मृतं च विश्वं च शवतुल्यं त्वया विना ॥

सर्वेषां च परा माता सर्वबान्धवरुपिणी । त्वया विना न सम्भाप्यो बाध्ववैर्बान्धव: सदा ॥

त्वया हीनो बन्धुहीनस्वत्वया युक्त: सबन्धव: । धर्मार्थकाममोक्षाणां त्वं च कारणरुपिणी ॥

तथा त्वं सर्वदा माता सर्वेषां सर्विवश्वत: । मातृहीन स्नत्यक्तावा स चेज्जीवति दैवत: ॥

त्वया हीनो जन:कोऽपि न जीवत्येव निश्चितम् । सुप्रसन्नस्वरुपा त्वं प्रसन्न भवाम्बिके ॥

वैरग्रस्तं च विषयं देहि मह्यं सनातनि । वयं यावत् त्वया हीना बन्धुहीनश्च भिक्षुका: ॥

सर्वसम्पद्विहीनाश्च तावदेव हरिप्रिये । राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि ॥
कीर्तिम् देहि धनं देहि यश: कांतिम् च देहि मे । कामं देहि मतिं देहि भोगान देहि हरिप्रिये ॥

ज्ञानं देहि च धर्मे च सर्वसौभाग्यमीप्सितम् । प्रभावां च प्रतापं च सर्वाधिकारमेव च ॥

जयं पराक्रमं युद्धे परमैश्वर्यमैव च । इत्युक्त᳭वां च महेन्द्रश्च सर्वै: सुरगणै: सह ॥
प्रणमाम साश्रुनेत्रो मूर्धना चौव पुन: पुन: । ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशव: ॥

वायुर्देवाश्च सन्तुष्टा: स्वं स्वं स्थानञ᳭च नारद। देवी ययोऐ हरे: क्रोडं दृष्टा क्षीरोदशायिन: ॥

ययतुश्चैय स्वगृहं ब्रह्मेशानौ च नारद । दत्वा शुभाशिषं तौ च देवेभ्य: प्रीतिपूर्वकम् ॥

इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं य: पठेन्नर: । कुबेरतुल्य: स भवेत् राजराजेश्वरो महान् ॥

सिद्धस्तोत्रं यदि पठेत् सोऽपि कल्पतरुर्नर: । पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥

सिद्धस्तोत्रं यदि पठेन्मासमेकं च सन्यत: । महासुखी च राजेन्द्रो भविष्यति न संशय: ॥

॥ ॐ विष्णवे नम: ॥ ॥ ॐ विष्णवे नम: ॥ ॥ ॐ विष्णवे नम: ॥

AstroPrinciple

Typically replies within 2 min

I will be back soon

Hello 👋. Welcome to AstroPrinciple. How can I help you?
Whatsapp Need Help?
Veena Gujar

Left us a 5 star review

google
Veena Gujar
Arvind Phansatkar
Purnima Shah
Ayush Tandon
Dhavalsinh Parmar
Soupal Roy
google
Rupesh Singh
google
Dhavalsinh Parmar
Dhruti Buch
Avinash
Kalpesh Patel
google
rajesh patel
google
Dhaval Patel
google
deepak warade
google
Sagar Kulkarni
Dhavalsinh Parmar